(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - कर्णपर्व


॥ श्रीः ॥
8.39. अध्यायः 039
Mahabharata - Karna Parva - Chapter Topics
शल्यकर्णयोः संवादः॥ 1 ॥ सेनाद्वयस्य परस्परमेलनम्॥ 2 ॥


Mahabharata - Karna Parva - Chapter Text

सञ्जय उवाच। 8-39-0x(4940)(56804)
ततः परानीकभिदं व्यूहमप्रतिमं कृतम्।
समीक्ष्य कर्णः पार्थानां धृष्टधुम्नाभिरक्षितम्॥ 8-39-1(56805)
प्रययौ रथघोषेण सिंहनादरवेण च।
वादित्राणां च निनदैः कम्पयन्निव मेदिनीम्॥ 8-39-2(56806)
सञ्जय उवाच। 8-39-3x(4941)
ततः प्रयान्तं राधेयं मद्रराजः स्मयन्निव।
अवधूय इदं वाक्यमब्रवीत्कुरुसन्निधौ॥ 8-39-3(56807)
चमूं तवेमां विपुलां समृद्वा--
मसङ्खेयामश्वनराकुलां च।
तथा प्रवेष्टा समरे धनञ्जयः
कक्षं दहन्दीप्त इवाश्रयाशी॥ 8-39-4(56808)
रथे स्तितौ वीरवरौ वरेण्यौ
सिंहस्कन्धौ लोहितपद्मनेत्रौ।
द्रष्टा भवानद्य विना प्रयत्ना--
त्तथाहि मे शकुना वेदयन्ति॥ 8-39-5(56809)
अद्य द्रष्टाऽसि तं वीरं श्वेताश्वं कृष्णसारथिम्।
निघ्नन्तं शात्रवान्सङ्ख्ये यं कर्ण परिपृच्छसि॥ 8-39-6(56810)
अद्य तौ पुरुषव्याघ्रौ लोहिताक्षौ परन्तपौ।
वासुदेवार्जुनौ कर्ण द्रष्टाऽस्यमितविक्रमौ॥ 8-39-7(56811)
सारथिर्यस्य गोविन्दो गाण्डीवं यस्य कार्मुकम्।
तं चेद्वन्ताऽसि राधेय त्वं नो राजा भविष्यसि॥ 8-39-8(56812)
प्रवात्येष महावायुरभितस्तव वाहिनीम्।
क्रव्यादा व्याहरन्त्येते मृगाः कुर्वन्ति भैरवम्॥ 8-39-9(56813)
पश्य कर्ण महाघोरं भयं वै रोमहर्षणम्।
अर्कं जीमूतसङ्काशः कबन्धो वार्य तिष्ठति॥ 8-39-10(56814)
पश्य यूथं मृगशतं मृगाणां सर्वतोदिशम्।
ररास दीप्तलाङ्गूलमादित्यामभि संस्थितम्॥ 8-39-11(56815)
पश्य काकांश्च गृध्रांश्च समवेतान्सहस्रशः।
आदित्यमभिवीक्षन्ते ह्यशिवाः कर्ण सस्वराः॥ 8-39-12(56816)
श्वेतवाजिसमायुक्ते तव कर्ण महारथे।
पताकाः प्रज्वलन्त्येता ध्वजश्चातीव कम्पते॥ 8-39-13(56817)
उदीर्यतो हयान्पश्य महाकायान्महाजवान्।
प्लवमानान्महावीर्यानाकाशे गरुडानिव॥ 8-39-14(56818)
ध्रुवमेषु निमित्तेषु भूमिमावृत्य पार्थिवाः।
स्वप्स्यन्ति निहताः कर्ण शतशोऽथ सहस्रशः॥ 8-39-15(56819)
शङ्खानां तुमुलः शब्दः श्रूयते रोमहर्षणः।
आनकानां च राधेय मृदङ्गानां च हन्यताम्॥ 8-39-16(56820)
शृणु शब्दान्बहुविधान्नराश्वरथवाजिनाम्।
ज्यातलत्रेषुशब्दांश्च शृणु कर्ण महात्मनाम्॥ 8-39-17(56821)
हेमरूप्यप्रमृष्टानां वाससां शिल्पिनिर्मिताः।
सहेमचन्द्रताराभाः पताकाः किङ्गिणीयुताः॥ 8-39-18(56822)
नानावर्णा रणे भान्ति श्वसनेन प्रकम्पिताः।
पश्य कर्णार्जुनस्यैताः सौदामिन्य इवाम्बुदे॥ 8-39-19(56823)
ध्वजाः कणकणायन्ते वातेनातिसमीरिताः।
सपताकरथाश्चापि पाञ्चालानां महात्मनाम्॥ 8-39-20(56824)
एष रेणुः समुद्भूतो दिवमावृत्य तिष्ठति।
गजवाजिप्रणुन्ना च कम्पते कर्ण मेदिनी॥ 8-39-21(56825)
श्रूयते मेघसङ्काशो रथनेमिस्वनस्तथा।
पश्य कुन्तीसुतं वीरं बीभत्सुमपराजितम्।
प्रहरिष्यन्तमायान्तं कपिप्रवरकेतनम्॥ 8-39-22(56826)
गजाश्वरथपत्त्योघांस्तावकान्युधि निघ्नतः।
ध्वजाग्रं दृश्यते तस्य ज्याशब्दश्चैव श्रूयते॥ 8-39-23(56827)
एष संशप्तकान्भूयस्तानेवाभिमुखो गतः।
करोति कदनं चैष सङ्गामे द्विषतां बली॥ 8-39-24(56828)
सञ्जय उवाच। 8-39-25x(4942)
इति ब्रुवाणं मद्रेशं कर्णः प्रोवाच मन्युमान्॥ 8-39-25(56829)
पश्य संशप्तकैः क्रुद्धैः समन्तात्समभिद्रुतः।
एष सूर्य इवाम्भोदैश्छन्नः पार्थो न दृश्यते।
एष दान्तोऽर्जुनः शल्य निमग्नः शोकसागरे॥ 8-39-26(56830)
शल्य उवाच। 8-39-27x(4943)
वरुणं कोऽम्भसा हन्यादिन्धनेन च कोऽनलम्।
कोवाऽनिलं निगृह्णीयात्पिबेद्वा को महार्णवम्॥ 8-39-27(56831)
ईदृग्रूपमहं मन्ये पार्थस्य युधि निर्जयम्।
न हि शक्योऽर्जुनो जेतुं युधि देवासुरैरपि॥ 8-39-28(56832)
अथैघं परितोषस्ते वाग्भिस्त्वं सुमाना भव।
न हि शक्यो युधा जेतुमन्यं कुरु मनोरथम्॥ 8-39-29(56833)
बाहुभ्यामुद्धरेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः।
पातयेत्त्रिदिवाद्देवान्नार्जुनं समरे जयेत्॥ 8-39-30(56834)
पश्य कुन्तीसुतं भीमं वीरमक्लिष्टकारिणम्।
प्रहरन्तं महाबाहुं स्थितं मेरुमिवाचलम्॥ 8-39-31(56835)
अमर्षी पुरुषव्याघ्रः सदा वैरमनुस्मरन्।
एष भीमो जयप्रेप्सुर्युधि तिष्ठति वीर्यवान्॥ 8-39-32(56836)
एष धर्मभृतां श्रेष्ठो धर्मराजो युधिष्ठिरः।
तिष्ठत्यसुकरः सङ्ख्ये परैः परपुरञ्जयः॥ 8-39-33(56837)
एतौ च पुरुषव्याघ्रावाश्विनेयौ महारथौ।
नकुलः सहदेवश्च तिष्ठतो युधि दुर्जयौ॥ 8-39-34(56838)
एते तिष्ठन्ति कार्ष्णेयाः पञ्च पञ्चाचला इव।
योत्स्यमाना महावीर्या भीमार्जुनसमा युधि॥ 8-39-35(56839)
एते द्रुपदपुत्राश्च धृष्टद्युम्नपुरोगमाः।
हीनाः सत्यजिता वीरास्तिष्ठन्ति परमौजसः॥ 8-39-36(56840)
यत्र कृष्णार्जुनौ वीरौ यत्र राजा युधिष्ठिरः।
तत्र धर्मश्च सत्यं च यतो धर्मस्ततो जयः॥ 8-39-37(56841)
इति संवदतोरेव तयोः पुरुषसिंहयोः।
ते सेने समसज्जेतां ङ्गायमुनवद्भृशम्॥ ॥ 8-39-38(56842)

इति श्रीमन्महाभारते कर्णपर्वणि एकोनचत्वारिंशोऽध्यायः॥ 39 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.